पात्रेसमितन्यायः

केचन जनाः कार्यकरणसमये अदृश्या भवन्ति परन्तु भोजनकाले एव धावित्वा आगच्छन्ति । एते पात्रेसमिताः कथ्यन्ते । एवं ये कार्यकारिणो न भवन्ति फलं प्राप्तुम्च् इच्छन्ति तेषां विषये अस्य प्रयोगो भवति ।

(व्याकरणशास्त्रानुसारं पात्रेसमिताः इति कश्चन निपातः । पात्रेसमितादयश्च इति सूत्रेण (२- १-४८) क्षेपार्थे पात्रेसमितादिशब्दाः निपाताः भवन्ति । भोजनसमये एव संगताः न तु कार्ये इति वैयाकरणसिद्धान्तकौमुद्यां अस्य विवरणं दृश्यते – समासप्रकरणॆ तत्पुरुषसमासे ।)

पाटच्चरयामिकन्यायः

चौर्यं कृत्वा चोरे पलाय्य् गते सति सुरक्षकस्य नियुक्तिः कस्मै प्रयोजनाय ? सुरक्षादृष्ट्या सुरक्षकस्य नियुक्तिः पूर्वमेव कर्तव्या भवति । एवं गतजले सेतुबन्धनमिव एतत् व्यर्थं भवति ।

पवनताडनन्यायः

वायोः ताडनं यथा अशक्यं निष्प्रयोजनं च कर्म तथा व्यर्थं कर्म बोधयितुम् अस्य न्यायस्य प्रयोगो भवति ।

तुल्यः –गगनरोमन्थन्यायः, आकाशमुष्टिप्रहरणन्यायः

प्रवत्स्यद्भर्तुकान्यायः

यदि कस्याश्चित् स्त्रियः भर्ता प्रवासे देशान्तरं गन्ताऽस्ति चेद् भर्तुः गमनकाले सा अतीव दुःखिता भूत्वा रुद्यात् । भर्तारं च प्रवासात् निवर्तयितुं प्रयतेत । ४६०. प्रसक्तप्रतिषेधन्यायः

संस्कृतभाषायां नञ्- इत्यस्य अर्थद्वयं भवति पर्युदासः प्रसज्य प्रतिषेधश्च इति । यत्र विधेः प्राधान्यं तत्र पर्युदासः, प्रतिषेधस्य यत्र प्राधान्यं तत्र प्रसज्य प्रतिषेध इति तयोः स्वरुपम् । पूर्वपदेन नञः अन्वयो भवतिचेत् पर्युदास इति क्रियया सह भवति चेत् प्रसज्यप्रतिषेध इति तस्य स्वरुपं भवति । यथाः प्रसज्यप्रसक्ति सम्पाद्यारोप्येति यावत्प्रतिषेधः । अत्यन्ताभावे प्रसक्तं हि प्रतिषिध्यत इति न्यायेन आरोपितप्रसंगस्यैव निषेधः । तेन वायौ रुपं नास्ति इत्यादावपि वायौ रुपारोपं कृत्वैव प्रतिषेधो नञा बोध्यत इति विवेकः ।

यथा – महाभाष्ये १-४-५०, वाक्यपदीये २-८६, बृहदारण्यकवार्तिके ३-९-७३

प्रधानत्वं विधेर्यत्र प्रतिषेधाप्रधानता ।
पर्युदांसः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥

साहित्यदर्पणे सप्तमे परिच्छेदे ॥

अश्राद्धभोजी ब्राह्मणः, अत्रस्त इति उदाहरणाद्वयम् ।

पर्युदासः स विज्ञेयो यत्र पूर्वपदेन नञ् ।
प्रतिषेधः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥

उत्तरपदशब्देन आख्यात प्रत्ययो गृह्यते । तद्व्यतिरिक्तं सर्वं धातुः प्रातिपदिकं समस्तं व्यस्त च आख्यातातिरिक्तः प्रत्ययश्च पूर्वपदेन गृह्यते । आख्यात प्रत्ययार्थश्च भावना । तथा च भावना संबद्धो नञर्थः प्रतिषेधः । यथा न कलञ्जं भक्षयेदिति । भावनेतरार्षसंबन्धो नञर्थः पर्युदासः यथा अब्राह्मणशब्देषु । मीमांसाप्रकाशे पृ.२५२

पर्वताधित्यकान्यायः

उपत्यकाऽद्रेरासन्ना भूमिरुर्ध्वमधित्यका इति अमरकोषानुसारम् अधित्यकाशब्देनैव पर्वतोर्ध्वभूमिः इति ज्ञायते । पर्वतशब्दस्य तथा आवश्यकता नास्ति । क्वचित् पुनरुक्तेरपि प्रयोजनं भवति । तुल्यौ – करकङ्णन्यायः, गजघटान्यायः

पर्वतोपत्यका नाम पर्वतसमीपवर्तिनी भूमिः । एवमेव पर्वतोपत्यकान्यायोऽपि निष्पन्नः ।

पर्णमयीन्यायः

यज्ञे विनियुज्यमाने सामग्रीविशेषे जुहूनामकः चमसविशेषः पर्णमयः नाम पलाशमयः (पलाशदण्डस्य विकारः) भवति ।

तुल्यः – गोदोहनन्यायः

द्रष्टव्यं – ब्रह्मसूत्रशाङ्करभाष्य – भामतीटीकायां ३-३-६

पर्जन्यन्यायः

वृष्टिः सर्वत्र एकरीत्या एव भवति । जलम् अधिकम् अल्पं वा स्यात् वृष्टिर्भवति चेत् समानैव भवति । एवं सर्वत्र समानरुपेणा यस्य अन्वयो भवति तस्य विषये अयं न्यायः प्रवर्तते । यथा :

1. कृतकानि खल्वपि शास्त्रं पर्जन्यवत् । तद्यथा पर्जन्यो यावदनं च कूर्पां च सर्वत्र अभिवर्षति ॥ पतञ्जलिमहाभाष्ये १-२-९, ६-१-१८९ 2. प्रकृत्यादिविभागकल्पनावत्सुलक्ष्येषु सामान्यविशेषरुपाणां लक्षणानां पर्जन्यवत् सकृदेव प्रवृत्तौ बहूनां शब्दानाम् अनुशासनोपलंभाष्य सर्वदर्शनसंग्रहेपाणिनीये 3. शङ्कराचार्याणां व्याख्या एवमस्ति –वृष्टिः सर्वत्र समा भवति परन्तु उत्तमक्षेत्रे वर्तमानानाम् बीजानां तया वृष्टया अङ्कुरोत्पत्तिर्भवति ऊषरदेशे वर्तमानानां न । ईश्वरकृपा अपि समाना भवति तथापि उत्तमकर्मणां नीचकर्मणां कारणेन फले वैषम्यं भवति । – ईश्वरस्तु पर्जन्यवद् द्रष्टव्यः । यथा हि पर्जन्यो ब्रीहियवादिसृष्टौ साधारणकारणं भवति । ब्रीहियवादिवैषम्ये तु तत्तद्बीजगतानि एव असाधारणानि समर्थानि कारणानि भवन्ति । एवम् ईश्वरो देवमनुष्यादिसृष्टौ साधारणं कारणं भवति । देवमनुष्यादिवैषम्ये

तु तत्तज्जीवगतानि एव असाधारणानि कर्माणि कारणानि भवन्ति । (शाङ्करभाष्ये – ब्रह्मसूत्र २-१-३४) (पर्जन्यवत् लक्षणप्रवृत्तिः – परिभाषेन्दुशेखर -१२०)

परिशेषन्यायः

कस्मिंश्चित् प्रदेशे दशजनाः आसन् तत्र चत्वारः पुरुषाः इत्युक्ते परिशेषन्यायेन अपराः षट् स्त्रियः इति स्वयं बुध्यते खलु । एवं कस्यचिद् भागस्य एकांशज्ञानेन परिशेषन्यायेन अपरांशज्ञानमपि भवति इत्यर्थे अस्य प्रयोगो भवति ।

(प्रसक्तप्रतिषेधे परिशिष्यमाणे बुद्धिः । स द्विविधः विधिमुखः निषेधमुखश्च । तत्राद्यो यथा चैत्रमैत्रयोरयं चैत्र इत्युक्ते अन्यस्मिन् मैत्रप्रमा । द्वितीयो यथा नायं चैत्र इत्युक्ते तस्मिन् मैत्रप्रमा । इयम् अनुमानजन्या ।.)

(झ्लकीकरन्यायकोशे पृष्ठे ४८४)

पराहणच्छायान्यायः

पराहणे पदार्थानां च्छाया लघ्वी भवति । परन्तु प्रातः काले मध्याह्ने वा सा दीर्घा भवति । एवमेव सज्जनानां मैत्री आदौ लघ्वी सती उत्तरोत्तरं वर्धते । अतः सज्जनानां मैत्री दिनस्य परार्धच्छाया इव वृद्धिमती । दुर्जनानां तावत् पूर्वार्धच्छाया इव आदौ दीर्घा क्रमेणा च हृस्वा भवति मैत्री ।

यथा-लघ्वी पुरा वृद्धिमती च पश्चात् ।

छायेव मैत्री खलु सज्जनानाम् ॥ भतृहरिनीतिशतके ४९

पयोमुखविषकुम्भन्यायः

कस्यचित् कुम्भस्य अन्तः पूर्णं विषमेव भवेत् परं बहिः दुग्धं लेपितं स्यात् तर्हि पयोमुखः सः विषकुम्भः हानिकारकः भवति खलु । एवं लोके केचन बहिः मधुरम् आलपन्तः दृश्यन्ते परम् अन्तः विषपूरितं तेषां मनः भवति ।

तुल्यः – गोमुकव्याघ्रन्यायः हितोपदेशमित्रलाभे ७४