Laukika-nyāya

Laukikanyāyāḥ – Popular Analogies in Sanskrit

पनसोदुम्बुरादिवदिति न्यायः

क्वचित् अरजस्वलायामपि गर्भोत्पत्तिः दृश्यते । क्वचित् विपरीतम् । क्वचित् रजोदर्शनं प्रकटं भवति क्वचित् च अप्रकटम् । एवं पनसस्य पत्राणि न दृष्टानि चेदपि पनसफलानि भवन्ति । एवं सृष्टेः विपरीतघटनाः सूचयितुम् अस्य प्रयोगो भवति । सा. ५५४

पद्मपत्रस्थिततोयन्यायः

पद्मपत्रस्थितः तोयबिन्दुः यथा अलिप्तो भवति तथा अलिप्तभावेन जीवतः विषये अयं न्यायः प्रवर्तते । तथैव अनेन न्यायेन अपरे अपि अंशाः सूचिताः भवन्ति यथा –

1. सर्वा अपि सृष्टिः नश्वरा क्षणभङ्गुरा च । 2. यथा जलबन्दुः पद्मपत्रोपरि स्थित्वा क्षणं यावत् मौक्तिकमिव राजते जीवने तथा महतां क्षणकालस्य सङ्गेन महत् फलमपि लभ्यते । 3. पद्मपत्रस्य जलकणस्यच संबन्धः अस्थिरः भवति । पत्रात् पतितस्य जलबिन्दोः नामापि न ज्ञायते ।

स्थिथप्रज्ञः जगति पद्पत्रस्थितजलकण इव अलिप्तो भवति ।

यथा-
१) पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ।
महाजनस्य संपर्कः कस्य नोन्नतिकारकः ॥ पञ्चतन्त्रे ३-५९

२ मुक्ताकरतया तदेव नलिनीपत्रस्थितं राजते । भर्तृहरि १-५८

3) लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ भगवद्गीता ५-१० (सा. ८०७)

पथिकसर्पमारणन्यायः

एकदा एकस्य गृहं सर्पः प्रविष्टः । सः मनुष्यः चिन्तामग्नः अभवत् यत् तस्य सर्पस्य हननेन हिंसापापं प्राप्येत सर्पस्य मारणेनापि सः न मृतः चेत् कालान्तरे प्रतिकुर्यात् इति । एवं चिन्तयित्वा सः एकम् उपायं कल्पितवान् । गृहाद् बहिरागत्य सः मार्गे गच्छन्तम् एमं पथिकम् अन्तः बाहूय सर्पं मारयितुम् उक्तवान् । तस्य मनसि एवं चिन्तनम् आसीत् यत् अयं पथिकः सर्पं मारयेत् चेत् सर्पहत्यापापं स एव

प्राप्नुयात् । सर्पः न मृतः चेत् तस्य पथिकस्य विषये एव प्रतीकारबुद्धिं धारयेत् इति । सर्पः मृतः पीडा च परिहृता । एवं सर्वोऽपि स्वयम् अधिकां हानिम् अप्राप्य कार्यं साधयितुं प्रयतते इति अस्य भावः ।

पत्रफलन्यायः

वश्क्षस्य पत्राणि फलानि च भवन्ति । कानिचन पत्राणि जीर्णानि भूत्वा पतन्ति परन्तु तेषां पतनेन फलानां कापि हानिः न भवति एवं कस्मिन्नपि एकस्मिन् मानवे वर्तमानेन एकेन दोषेण मानवः सर्वोऽवि दुष्ट इति नैव मन्तव्यम् इति अनेन न्यायेन बोध्यते ।

पतिंवरान्यायः

स्वयंवरा कन्या उपस्थितेभ्यः आत्मनः अभीष्टमेव वरं पतित्वेन वश्णीते तथैव सर्वोऽपि जनः स्वाभीष्टमेव प्रेप्सति इति अनेन न्योन बोध्यते ।

पतङ्गदीपकन्यायः

आकाशे डयमानः पतङ्गः अग्निज्वालायां स्निह्यन् प्रेम्णा तत्र प्रविश्य तत्रैव दग्धः भवति तथापि इतरे पतङ्गाः अग्निप्रवेशं न त्यजन्ति । एवं स्वभावः सर्वत्र प्रणिनं प्रेरयति इति अनेन न्यायेन बोध्यते । सा. ३२६

पटकुटीरन्यायः

पर्याप्तः पटः अस्ति चेत् यत्र आवश्यकं तत्र पटकुटीरस्य अपि निर्माणं कर्तुं शक्यते । एवं साधनानाम् उपलब्धिः भवति चेत् किमपि साधयितुं शक्यते इति अनेन न्यायेन बोध्यते ।

पञ्जरस्थसिंहन्याय

पञ्जरे बद्धः सिंहः किमपि कर्तु न शक्नोति तथैव स्नेहतन्तुना सन्तानरज्जुना च बद्धः मनुष्यः परवशो भूत्वा स्वतन्त्रविचारं कर्तुं न शक्नोति इति अस्य न्यायस्य भावः ।

यथा – स्नेहतन्तुमयैः पाशैः बद्धः सन्तानरज्जुभिः ।

पञ्जरस्थो यथा सिंहः समर्थोऽपि वशीकश्तः ॥ सा. ९३७

पञ्जरमुक्तपक्षिचालनन्याय

पञ्जरात् मुक्तः पक्षी स्वतन्त्रः भूत्वा आकाशे उड्डयते । एवं देहात् मुक्तः जीवः सदैव उपरि गच्छति अन्ते च मोक्षं प्राप्नोति इति दिगम्बरजैनेषु केचन मन्यन्ते । शरीरस्य ऊर्ध्वगमनम् अद्वैतदर्शनेऽपि स्वीक्रियते –

यथा – बन्धमुक्तस्य ऊर्ध्वगमनम् दश्ष्टं यथा पञ्जरमुक्तशुकस्य यथा वा वारिनिर्भिन्नपरिणतैः अण्डबीजस्य यथा वा दश्ढपङ्कलिप्तजलनिमज्जनप्रक्षीण- पङ्कलेप शुष्कालाबु फलस्य ।

(वेदान्तकल्पतरुपरिमलटीका – लौकिकन्यायसाहस्रीतः सा.०९)

पञ्जरचालनन्यायः

एकस्मिन् पञ्जरे वर्तमानाः पक्षिणः पृथग्रूपेणा यत्नम् एकैकशः कृत्वा अपि तं पञ्जरम् उत्थापयितुं न शक्नुवन्ति । परन्तु ते सर्वे मिलित्वा यदि प्रयत्नं कुर्युः तदा तं पञ्जरम् उत्थापयितुं शक्नुयुः । एवं शरीरे वर्तमानाः प्राणाः संभूय शरीरं धारयन्ति इति अनेन बोध्यते ।

यथा- यथैकपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः संभूयैकं पञ्जरं चालयन्ति , एवम् एकं शरीरवर्तिनः एकादशप्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः संभूय एकां प्राणाख्यां वृत्तिं प्रतिजप्स्यन्त इति ।

ब्रह्मसूत्रशाङ्करभाष्ये २-४-९