नष्टाश्वदग्धरथन्यायः

नष्टाश्वदग्धरथन्यायः

एकदा द्वयोः जनयोः पृथग् रुपेण प्रवासः आरब्धः । द्वयोः अपि पृथक् रथौ आस्ताम् । प्रवाससमये एकस्य ग्रामस्य समीपे अग्निस्फोटः जातः । तत्र एकस्य रथः दग्धः अपरस्यच अश्वाः मृताः । यस्य रथः दग्धः तस्य अश्वाः सुरक्षिताः आसन् । यस्य अश्वाश्च मृताः तस्य रथश्च सुरक्षितः आसीत् । द्वयोः गम्यस्थलम् एकमेव आसीत् इति कारणेन परस्परं रथस्य अश्वानां च योजनेन द्वावपि स्वं प्रवास अग्रे नीतवन्तौ इति काचित् कथा पतञ्जलिमहाभाष्ये दत्ता अस्ति ।

एवं स्वकार्यसिद्ध्यर्थम् एकत्र आगमनं तथा स्वसमीपे वर्तमानानां वस्तूनाम् अन्येषाम् उपयोगार्थं विनियोगः एवञ्च परस्परं योग्यविनियोजनेन एककार्यसिद्धिः अति अनेन न्यायेन बोध्यते ।

1. संप्रयोगो वा नष्टाश्वरथदग्धवत् । तद्यथा नष्टाश्वदग्धरथवत् संप्रयोगो भवति । तद्यथा तवाश्वो नष्टो ममापि रथो दग्ध इव उभौ संप्रयुज्यावहे । (पतञ्जलिमहाभाष्ये स्थानेऽन्तरतमः इति सूत्रगते १-१-५०)
2. नष्टाश्वदग्धरथन्यायेन कर्मणा पितृलोक इति श्रुतेः । (वेदान्तसार – रामतीर्थटीका १३)

Leave a Reply

Your email address will not be published. Required fields are marked *