नक्रन्यायः

नक्रन्यायः

स्वस्थाने वर्तमानः मनुष्यः अतीव सुरक्षितो भवति । स एव यदा स्थानभ्रष्टो भवति तर्हि पराभूतो भवति । यथा जले वर्तमानः नक्रः अतीव बलवान् भवति चेदपि यदा जलाद् बहिः गच्छति तदा तस्य शक्तिः क्षीणा भवति । नक्रः जले भवति चेत् गजमपि मारयितुं शक्तो भवति स्थले तावत् तं शुनकोऽपि भीषयितुं शक्नोति ।

यथा –
नक्रः स्वस्थानमारुह्य गजेन्द्रमपि कर्षति ।
स एव प्रच्युतः स्थानात् शुनाऽपि परिभूयते ॥ पञ्चतन्त्रे ३-४४

Leave a Reply

Your email address will not be published. Required fields are marked *