गोपगृहिणीन्यायः

गोपगृहिणीन्यायः

न्यायः अयं कामपि कथाम् आश्रित्य प्रवर्तितः ।

कस्याश्चित् चञ्चलायाः राज्ञयाः एकः पुत्रो जातः । तस्यास्तु पत्युः अपेक्षया अन्यस्मिन् पुरुषे अभिलाषः आसीत् । अतः सा राज्ञी पतिं विषेण मारयित्वा स्वप्रियं प्रति गता । परन्तु तदा सः पुरुषः सर्पदंशेन मृतः अभवत् । ततः सा महिला देशान्तरे भ्रमित्वा क्रमेण वेश्यावृत्तिम् आश्रितवती । एकदा तस्याः सविधे तस्याः पुत्र एव आगतः । सल्लापे तस्याः अभिज्ञानं प्राप्य स राजकुमारः चितां प्रविश्य मृतः अभवत् । तेन दुःखिता सा महिला मरणोद्यमा नदीजलं प्रविष्टा । परन्तु कश्चन गोपः तां रक्षित्वा तया सह विवाहं कृतवान् । सा च महिला दधिविक्रयणार्थ शिरसः उपरि दधिभाण्डानि स्थापयित्वा गृहात् गृहम् अटितुम् आरब्धवती । एकदा पादस्खलनेन सा अधः पतिता दुग्ध – दधिभाण्डानि च भग्नानि । दैवदुर्विलासेन तया गोपकर्म कुर्वत्या विध्नाः सोढव्याः अभवन् । एवं संकटपरम्परा आपतति इति अनेन न्यायेन सूचितो भवति ।

विवेकभ्रष्टानां भवति विनिपातः शतमुखः इति सत्यमेव । अस्याः कथायाः सारांशः एकेन श्लोकेन बोधितः-

हत्वा पतिं नरमवाप्य भुजङ्गदष्टं
देशान्तरे विधिवशाद् गणिकाऽस्मि जाता ।
पुत्रं स्वकं समधिगम्य चितां प्रविष्टं
शोचामि गोपगृहिणी कथमद्य तक्रम् ॥ (सा. ९७७)

Leave a Reply

Your email address will not be published. Required fields are marked *