खलेकपोतन्यायः

खलेकपोतन्यायः

धान्यस्य खले कपोताः संभूय आपतन्ति एकैकशः न । ते कपोताः वृद्धाः तरुणाः शिशवो वा भवन्तु सर्वे मिलित्वा आपतन्ति ।

यदा केनापि देवदत्त कटम् आनय’ इत्युक्तं तदा एकैवस्य अर्थज्ञानं न भवति । सर्वेषामपि पदानां युगपदेव अर्थज्ञानं भवति । आदौ आद्यपदस्य अनन्तरं तदनन्तरस्य अर्थस्य ज्ञानं इति एवं रीत्या अर्थज्ञानं न भवति । सर्वेषां एकसमयावच्छेदेन अर्थज्ञानं भवतीति बोधयितुं न्यायस्य अस्य प्रयोगः क्रियते । (सा.१८३)

पश्यन्तु –
वृद्धा युवानः शिशवः कपोताः खले यथाऽमी युगपत् पतन्ति ।
तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति ॥

यदा बहूनि कारणनि संभूय एकमेव कार्य निष्पादयन्ति तदा (तादृशी स्थितिं बोधयितुम्) अस्य न्यायस्यप्रयोगः क्रियते । अलङ्कारशास्त्रे समाधिनामकस्य अलङ्कारस्य विषये काकतालीयन्यायस्य, समुच्चयनामकस्य अलङ्कारस्य विषये खलेकपोतन्यायस्य च प्रयोगः क्रियते ।

कृषिक्षेत्रे कृषकाः धान्यं पृथक्कर्तुं खलान् निर्मान्ति । तदा तद् धान्यं खादितुम् अनेके कपोताः युगपदेव खले आगत्य पतन्ति । तथैव अनेकैः कारणैः एकमेव कार्यं निष्पाद्यते चेत् समुच्चयालङ्कारः भवति ।
(काव्यप्रकाशसंपादकः – अर्जुनवाडाकर पृष्ठं ६६१)

Leave a Reply

Your email address will not be published. Required fields are marked *