केतकीकुसुमन्यायः

केतकीकुसुमन्यायः

केतकीकुसुमानाम् अतिशयसुगन्धकारणेन सर्वेषां मनः आकृष्टं भवति । परन्तु तत्र वर्तमानानां कण्टकानां कारणेन तेषां समीपं गन्तुं भयमपि भवति । तथैव केषाञ्चन विषये मनसि सपद्येव आकर्षणं भीतिरपि भवतीति सूचयितुम् अस्य न्यायस्य प्रयोगो भवति ।

महाकविना कालिदासेन अस्य न्यायस्य सुन्दरः प्रयोगः रघुवंशमहाकाव्ये कृतः

यथा –
भीमकान्तैर्नृप गुणैः स बभूवोपजीविनाम् ।
अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ॥ (रघुवंशे-१-१६)

स्वकीयैः भयजनकैः गुणैः अधृष्यः कमनीयगुणैः च अभिगम्यः अभवत् राजा दिलीपः । समुद्रः तत्र वर्तमानानां जलचराणां कारणेन भयङ्करो भवति परन्तु रत्नादिमूल्यवद्वस्तूनां कारणेन आकर्षणीयः अपि भवति खलु ।

Leave a Reply

Your email address will not be published. Required fields are marked *