कूपखननन्यायः

कूपखननन्यायः

गृहे दह्यमाने यः अग्निं शमयितुं जलम् आवश्यकमिति कूपं खनितुम् उपक्रान्तो भवति चेत् बुद्धिमान् भवति किम् ? तथा कस्यापि विषयस्य कृते पूर्वमेव सिद्धताम् अकृत्वा संकटे आपतिते उपायम् अन्विषतः विषये अयं न्यायः प्रवर्तते ।

अस्याशयस्य सुभाषितमेकं प्रसिद्धम् अस्ति –

यावत् स्वस्थमिदं शरीरमरुतं यावज्जरा दूरतो
यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयो नायुषः ।
आभिश्रेयसि तावदेव विदुषां कार्यः प्रयत्नो महान्
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ नीतिशतके १३८

Leave a Reply

Your email address will not be published. Required fields are marked *