एकवृन्तगतफलद्वयन्यायः

एकवृन्तगतफलद्वयन्यायः

एकस्मिन् वृन्ते एव फलद्वयं भवति इति न्यायः । कस्मिन्नपि वृन्ते फलद्वयमस्ति चेत् वृन्तस्य त्रोटनेन फलद्वयं लभ्यते अन्यथा एकम् एव फलं लभ्येत । एकेनैव प्रयत्नेन कार्यद्वयस्य सिद्धिः अनेन न्यायेन सूच्यते । एकेनैव शिलाखण्डेन पक्षिद्वयं मारितम् इति मराठीभाषायां कश्चन वाक्प्रचारः वर्तते । यदा एकस्य शब्दस्य अर्थद्वयम् एकत्र एव अन्वितं भवति तदा कश्चन विशिष्टः श्लेषालङ्कारः भवति । श्लेषालङ्कारे एकस्मात् पदात् अर्थद्वयं किंवा अधिकाः अर्थाः गृहीताः भवन्ति । श्लेषालङ्कारस्य विवेचनसमये जगन्नाथपण्डितेन अस्य न्यायस्य उल्लेखः कृतः ।

पश्यन्तु -इह हि सभंगश्लेषस्य शब्दद्वयवृत्तित्वं जतुकाष्ठन्यायेन अभंगस्य च अर्थद्वयवृत्तित्वम् एकवृन्तगतफलद्वयवच्च स्फुटमेव ॥(पृष्ठम् ५३६)

Leave a Reply

Your email address will not be published. Required fields are marked *