एकदेशविकृतन्यायः

एकदेशविकृतन्यायः

कस्यापि प्राणिनः शरीरस्य कश्चन भागः खण्डितः नष्टः वा भवति चेदपि सः प्राणी स एव भवति न अन्यः । तस्य मूलरुपे परिवर्तनं न भवति । कस्यापि शुनकस्य कर्णः छिन्नः लाङ्गूलं वा छिन्नं तथापि सः शुनकः एव भवति अश्वः वा गर्दभः वा न भवति ।

(एकदेशविकृतम् अनन्यवत् इति व्याकरणपरिभाषा वर्तते – छिन्ने अपि पुच्छे श्वा श्वा एव भवति न गर्दभः इति । परिभाषेन्दुशेखरे ३७) । (सा ३५०)

Leave a Reply

Your email address will not be published. Required fields are marked *