अन्धगजन्यायः

अन्धगजन्यायः

एकदा केचन अन्धाः अन्यं जनम् उद्दिश्य अवदन् – ‘अस्मान् गजं दर्शय’ इति । सः गजशालां प्रति तान् नीतवान् । तत्र एकैकः अपि गजस्य एकैकम् अवयवम् अस्पृशत् । ततः ते गजं वर्णयितुम् आरब्धवन्तः – कर्णभागं यः स्पृष्टवान् सः अवदत् ‘गजः शूर्पसदृशः अस्ति’ इति । तथा महासर्पसदृशः इति शुण्डग्राही, स्तम्भतुल्यः इति जङ्घाग्राहिता, पुच्छग्राहकः तु स्थूलरज्जुसमः गजः इति अवदन् । तेषां दृष्टिः नासीत् इति कारणेन तस्य गजस्य साकल्येन वर्णन कर्तु ते अस्मर्थाः अभवन् । तथैव कस्यापि वस्तुनः पूर्णज्ञानं यस्य नास्ति सः तस्य आंशिकज्ञानस्य आधारेण तस्य वस्तुनः वर्णनं कुर्वन् एतत् पूर्णतः एतादृशमेव वस्तु भवेत् इति चिन्तयति ।(सा. ७६) । तथा परमेश्वरविषये श्रुतिवाक्यादीनां विषये वा भवतु मूलतत्त्वम् अजानन्तः स्वस्वाभीष्टप्रदानीव पश्यन्तः परस्परं कलहं कुर्वन्ति । यत्र तत्त्वम् अज्ञातवतां मूर्खाणां परस्परकलहः तदवसरे अस्य न्यायस्य उल्लेखः क्रियते ।

अन्धैः निर्धारितः गजः अन्धगजः तस्य न्यायः इति मध्यमपदलोपगर्भः षष्ठीतत्पुरुषः ।

अस्य न्यायस्य उल्लेखः सुरेश्वरस्य महावार्तिके(४. ४. ५६६) दृश्यते – “एकमेवैकरूपं सद्वस्त्वज्ञातं निरञ्जनम् । जात्यन्धगजदृष्ट्यैव कोटिशः कल्प्यते मृषा ।”

नैष्कर्मसिद्धिग्रन्थे (ii ९३) “तदेतदद्वयं ब्रह्म निर्विकारं कुबुद्धिभिः । जात्यन्धगजदृष्ट्येव कोटिशः परिकल्प्यते।”

andhagajanyāyaḥ

The analogy of the blind men and the elephant. A number of blind men desired to form an idea of the shape of an elephant. One touched his trunk and thought he must be like a snake; another took hold of a leg and supposed that he was like a post, and so on. Tārānātha tells us that it is used to illustrate the divergence of views held by the ignorant in regard to Īśvara.
 
The story is found in the Buddhist work Udānam (vi. 4, pages 66-69) published by the Pali Text Society in 1885.

It is referred to in Sureśvara’s large Vārtika 4.4.566 (page 1813) as follows: “ekamevaikarūpaṃ sadvastvajñātam nirañjanam । jātyandhagajadṛṣṭyeva koṭiśaḥ kalpyate mṛṣā” । Also in his Naiṣkarmyasiddhi ii.93: “tadetadadvayaṃ brahma nirvikāraṃ kubuddhibhiḥ: । jātyandhagajadṛṣṭyeva koṭiśaḥ parikalpyate” ॥ This nyāya is met with again in Syādvādamañjarī. It occurs also in the Jainadarśana of Saddarśanasamuccaya; but the passage in which it is found was taken verbatim from Mallisena’s work, without any acknowledgment.

Leave a Reply

Your email address will not be published. Required fields are marked *