अन्धकवर्तकीयन्यायः

अन्धकवर्तकीयन्यायः

अयं न्यायः काकतालीयन्यायवद् अवितर्किते इष्टलाभे अनिष्टलाभे च अवतरति । यथा कश्चिदन्धकः पुमान् करतलेन करं ताडयन्वर्तते, तस्य हस्तद्वयमध्ये वर्तिका पक्षिविशेषो दैवात्समायाति, स तु दुर्लभः, तथा मानुषजन्मनि सत्तां सङ्गोऽतिदुर्लभः ।

अत एवोक्तम् – यशस्तिलकचम्पूः ii १५३ –संसारसागरमिमं भ्रमता नितान्तं जीवेन मानवभवः समवापि दैवात् ।तत्रापि यद् भुवनमान्यकुले प्रसूतिः सत्सङ्गतिश्च तदिहान्धकर्तकीयम् ॥(सा.६५५) इति ।

किञ्च – वर्धमानः वदति – गणरत्नमहोदधि iii, १९५ – अन्धकश्च वर्तका च अन्धकवर्तकम् । अन्धकस्य वर्तकाया उपर्यतर्कितः पादन्यास उच्यते । तत्तुल्यमन्धकवर्तकीयम् ॥ यथान्धकस्य पुंसः पादन्यासोऽतर्कितो वर्तिकाख्यविहगोपरि पतेत्, तथा तत्सदृशमन्धकवर्तकीयमिति । इत्यादयः प्रायेणान्योन्यं मिलन्तीति ।

अन्ध एव अन्धकः । स्वार्थे कः । नेत्रविहीन इत्यर्थः । वर्तिका पक्षिविशेषः । वनवटका इति प्रसिद्धा । देशभाषायां तु बटेरा इति प्रसिद्धा । “वर्तका शकुनौ प्राचाम्” उदीचां तु वर्तिकेति स्त्रीप्रत्यये सि. कौ. गणसूत्रादित्वविकल्पः । अन्धकश्च वर्तिका च अनयोः समाहारः – अन्धकवर्तकम् “स नपुंसकम्” २।४।१७ इति नपुंसकत्वम् । अन्धकवर्तकमिव अन्धकवर्तकीयम् – “समासाच्च तद्विषयात्” ५।३।१० इति सूत्रेण छप्रत्ययः । छस्येयः ।

andhakavartakīyanyāyaḥ

The analogy of the blind man and the quail. Like Ajākṛpāṇīya and many others, it is used to express a wholly fortuitous occurrence. Vardhamāna, on Gaṇaratnamahodadhi iii. 195, explains it thus: “andhakaśca vartakā ca andhakavartakam । andhakasya vartakāyā uparyatarkitaḥ pādanyāsa ucyate । tattulyamandhakavartakīyam” ॥ This authority brings the quail under the blind man’s foot; but the commentator Śrīśrutasāgara, who expounded the work Yaśastilaka, and who in the colophon is described as “tarkavyākaraṇachandolaṃkārasiddhāntasāhityādiśāstranipuṇamatiḥ prākṛtavyākaraṇādyanekaśāstraracanācañcuḥ,” brings the bird into the man’s hands. And, surely, such a prodigy of learning must be right! The verse in which the expression andhakavartakīya occurs is Yaśastilaka ii. 153. “saṃsārasāgaramimaṃ bhramatā nitāntaṃ jīvena mānavabhavaḥ samavāpi daivāt । tatrāpi yadbhuvanamānyakule prasūtiḥ satsaṅgatiśca tadihāndhakavartakīyam” ॥ “It is altogether by chance that a soul wandering about in this ocean of repeated births is born as a man; and that he should be born into a family of repute in the world, and enjoy the society of the good, is likewise as accidental as in the case of the blind man and the quail.” Śrīśrutasāgara’s explanation of the last term is as follows: “andhakavartakīyo dṛṣṭāntaḥ। yathā kaścidandhakaḥ pumān karatalena karaṃ tāḍayanvartate tasya karadvayamadhye vartakaḥ pakṣiviśeṣaḥ samāyāti sa tu durlabhastathā mānavabhave satsaṅgatirdurlabhā vartate”

Leave a Reply

Your email address will not be published. Required fields are marked *