अन्तर्दीपिकान्यायः

अन्तर्दीपिकान्यायः

गृहे स्थापितस्य दीपस्य अल्पोऽपि वा प्रकाशः सर्वत्र भवति । एकस्मिन् प्रदेशे वर्तमानस्य जनस्य वस्तुनः वा कारणेन बहूनि कार्याणि भवन्ति चेत् तद द्योतयितुम् अस्य न्यायस्य प्रयोगः भवति । अस्यैव नामान्तरं देहलीदीपन्यायः इति उच्यते ।

यथा- सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन बह्मचर्येण नित्यम् इति मुण्डकोपनिषदि वर्तमानस्य मन्त्रस्य शाङ्करभाष्ये नित्यं सदा, नित्यं तपसा नित्यं सम्यग्ज्ञानेन इति रीत्या नित्यशब्दस्य अन्तर्दीपिकान्यायेन त्रिभिरपि अर्थैः सह संबन्धः दर्शितः । (सा.६५९)

Antardīpikā-nyāyaḥ

The analogy of a lamp in an central position. Applied to something which fulfils a dual purpouse. It occurs in Śāṅkara’s bhāṣya on the Muṇḍaka-Upaniṣad 3.1.5 ( “satyena labhyas tapasā hyeṣa ātmā samyag-jñānena brahmacaryeṇa nityam.” on which he says – “nityaṁ sarvadā. nityaṁ satyena nityaṁ tapasā nityaṁ samyag-jñāneneti sarvatra nitya-śabdo ‘ntardīpikā-nyāyenānuṣaktavyaḥ.” It is akin to ‘dehalī-dīpa-nyāya’ and ‘madhya-dīpa-nyāya’. Jīvānanda’s edition of the Muṇḍakabhāṣya reads ‘antya-dīpaka-nyāyena’. The reading given above is from the Ānandāśrama edition.

Leave a Reply

Your email address will not be published. Required fields are marked *