अजाकृपाणीयन्यायः

अजाकृपाणीयन्यायः

अजायाः कृपाणस्य (खड्गस्य) च सम्पर्कः अकस्मादिव जातः चेदपि अजा मृता भवति एव । यदा काचिद् घटना अनपेक्षितरीत्या घटते तदा तस्याः निर्देशं कर्तुम् अयं न्यायः उपयुज्यते । अकस्मात्, सहसा जायमानानां घटनानां कृते अस्य उपयोगः । अयम् एव अर्थः काकतालीयन्यायेन खल्वाटबिल्वीयन्यायेन च बोध्यते । अन्यस्मिन् न्याये इष्टलाभः अनिष्टलाभः वा सूच्यते परन्तु अनेन न्यायेन अनिष्टप्राप्तेः एव सूचना भवति ।

अजाकृपाणपदाभ्यां तदागमनपतने लक्ष्येते । अजागमनमिव कृपाणपतनमिव अजाकृपाणं, ततः अजाकृपाणमिव अजाकृपाणीयमिति । एवमागच्छन्त्याः अजायाः कृपाणपतनाद्यथा वधः, तत्सदृशं मरणमिति फलितोर्थः अपि विव्रियते ।अस्य न्यायस्य उत्तमः उल्लेखः श्रीहर्षस्य खण्डनखण्डखाद्ये दृश्यते – पाणौ पञ्च वराटकान्पिधाय कश्चित्पृच्छति कति वराटका इति । पृष्टश्चाजाकृपाणीन्यायेन ब्रवीति पञ्चेति ॥

अधः टिप्पण्याम् एवम् उल्लिखितमस्ति – कण्डूयनार्थं स्तम्भादौ शुथिलबन्धखड्गे छागी ग्रीवां प्रसारयति यदृच्छया च ग्रीवा छिद्यते तथाभूतोऽजाकृपाणीन्यायः काकतालीयन्यायसमः ।

वर्धमानः स्वीये गणरत्नमहोदधिव्याख्यायाम् अन्यविधं लिखति -यथाजय भूमिं खनन्त्यात्मवधाय कृपाणो दर्शितस्तत्तुल्यं वृत्तं केनचिदात्मविनाशाय कृतमजाकृपाणीयम् ॥

ajā-kṛpāṇīya-nyāyaḥ

The maxim of the she-goat and the sword. It is founded on some story of a goat’s being suddenly killed by accidental contact with a sword, and is used to illustrate any surprising event happening altogether by chance. It therefore belongs to the same class as kāka-tālīya, khalvāṭa-bilvīya and others of a similar kind. An excellent illustration of its use is found in Śrī-harśa’s Khaṇḍanakhaṇḍakhādya – “pāṇau pañca varāṭakāpindhāya kaścit pṛcchati kati varāṭakā iti. pṛṣṭaścājākṛpāṇīña-nyāyena bravīti pañceti.” In a footnote the maxim is thus explained – “kanḍūyanārthaṁ stambhādau śithila-bandha-khaḍge chāgī grīvāṁ prasārayti yadṛcchayā ca grīvā chidyate tathābhūto ‘jākṛpāṇīya-nyāyaḥ kāka-tālīya-samaḥ.” Vardhamāna puts it differently in his comment on ‘Gaṇaratna-mahodadhi’ ii.196 – “yathājayā bhūmiṁ khanantyātmavadhāya kṛpāṇo darśitas-tat-tulyaṁ vṛttaṁ kenacid ātma-vināśāya kṛtam ajā-kṛpāṇīyam”. For another variety, see Padamañjarī on Kāśikā 5.3.106.

The nyāya, with the same illustration, is found also in the ‘Khaṇḍanoddhāra’; and the illustration, without the nyāya, in the Siddhānta-leśa. There it is again referred to in the expression – “kāka-tālīya-samvādi-varāṭaka-saṅkhyā-viśeṣāhārya-jñāna-vat”.

It is interesting to note that the Marāṭhī-speaking folk of Western India have adopted the maxim, but with a changed meaning. It is defined as “The maxim of the sword upon the neck of the goat. Expressive of meekness and absolute helplessness.”

Leave a Reply

Your email address will not be published. Required fields are marked *